देवी ध्यानम्
कालीध्यानम् शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम् । चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।। मुण्डमालाधरां देवीं लोलजिह्वां दिगम्बराम् । एवं सञ्चितयत्कालीं श्मशानालयवासिनीम् ! ताराध्यानम् प्रत्यालीढपदापितांघ्रिशव हृद्घोराट्टहासापरा । खड्गेंदीवरकत्रिखरभुजा हुंकारबीजोद्भवा ॥ खर्वानीलविशालपिङ्गलजटाजूटैकनागैर्युता । जाड्यं चन्द्रकपालकर्तृजगतां हन्त्युग्रतारा स्वयम् ॥ षोडशीध्यानम् बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशांकुशशरांश्चापं धारयन्तीं शिवां भजे ॥ भुवनेश्वरीध्यानम् । उद्यद्दिनद्युतिमिन्दुकिरीटां तुंगकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदांकुशपाशभीतिकरां प्रथये भुवनेशीम् ॥ भैरवीध्यानम् उद्यद्भानु सहस्त्र कान्तिमरुणक्षौमां शिरोमालिकाम् । रक्तालिप्तपयोधरा जपपटीं विद्यामभीतिं वराम् ॥ हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्रक्तारविन्दश्रियम् । देवीं बद्धहिमांशुरत्नमुकुटां वन्दे सुमन्दस्मिताम् ॥ छिन्नमस्ताध्यानम् प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कत्रिकाम् । दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्ती मुदा ।। नागाबद्धशिरोर्माण त्रिनयनां हृद्युत्पलालंकृताम् । रत्यासक्तमनोभवोपरि दृ...